________________
३२८
तद्बुद्धी शास्त्रचिन्मानं सुमतौ सचित्रे धुरम् ॥ १० ॥ भाण्डागारे धनं स्थाप्यं सुखाय पृथिवीपतिः । न्यायमार्गेण युक्त्या च सचिवादिसहायतः ॥ ११ ॥ धनं सम्पादयेद्धीमान लोकरक्षणकारणम् । धनसंरक्षिणी शाला भाण्डागारमितीरिता ।। १२ ।।
तां शालां स्थपतिश्रेष्ठः स्थापयलक्षणान्विताम् । देश्या पौरेति सा शाला द्विविधा कथिता बुधैः ॥ देश्या सदुर्गा मालिन्दा द्वारोपहारमेदुरा । प्राकारत्रयसंवीता मित्तसप्तकसंवृता ॥ १४ ॥
किञ्च 'सर्वेषां भूमिपालानां धनं देवं निगद्यते ' इति 'धनं सम्पादयेत्' इत्यन्तं स्पष्टार्थकमेव । तत्र धनानां महिमाऽऽविष्कृता भवति । तादृशधनस्थापनशालायाः भाण्डागारमिति प्रसिद्धं नाम विदुराचार्याः ॥
सा च धनस्थापनशाला देश्या पौरा चेति द्विविधा भवति । तल्लक्षणं यथा तत्र तत्र देशेषु मण्डलनगरेषु वा स्थायां राजकीयधनशालां दुर्गावृतभवनस्य मध्यभागे पृथग्वा स्थापयेन ॥
अथवा दुर्गावृतराजकीय न्यायशालाया मध्यनिर्माण वा स्थाप्येति स्थलसौकर्यद्योतको विकल्पः । सर्वथा तादृशीं