________________
३१६
अष्टोत्तरशतग्रामकार्यशाला सभा मता । मुख्या सभा तु सा प्रोक्ता पुराष्टोत्तरकार्यभाक् ॥ २ ॥ सार्वभौमेन वा यूना भूपालैः क्षत्रवंशजैः । मान्या प्रधानिका प्रोक्ता सिद्धासनसमन्विता ॥ ३ ॥ न्यायविचारः कलनीय इति । तथैवान्त्यायां राजधान्यादिषु उत्तमस्थलेषु स्थापनीयायां प्रधानसभायां सार्वभौमादिक्षत्र भूपालवर्गस्य साक्षात् सिह्मासनं प्रकल्प्य तद्वारा प्रजारक्षणादिः कार्य इति तदीयनियमार्थो बोध्यः ॥
अत एवैषा दैवी सभा, राज्ञी सभा, मानुपी सभेति लक्षणव्यवहार भागिति भावः । कि तासां सभानां तिसृणां तदीयकार्यादिलक्षणान्तरमप्याह- अष्टोत्तरशवेति । अष्टोत्तरशतग्रामवर्गनिवासिनां करमहणत द्वाञ्छा पूरणतम्न्यायादिविचारणकार्यार्थं कल्पनीया निर्मितिस्साधारणसभेति व्यवहियते । अस्या एव ग्रामसभेति नामान्तरम् । एवमष्टोत्तरशतनगरनिवासिनां करप्रणतद्व।ञ्छापूरणतन्न्यायादिचर्चाकार्यार्थं कल्पनीयं कल्पनं मुख्या सभेति नाम भजतीति लोकप्रसिद्धिः । अस्या एव पौरसभेति नामान्तरञ्च बोध्यम् ॥
एवमेव राजधान्यां महानगर्यामथवा भूपालवासाईप्रासादादिसहितनगरेषु वा कल्पनीया महाशाला राजकीयप्रधानशालेति व्यवह्नियत ||