________________
अथ पौरदेश्यसभादिकथनं नाम
सप्तदशोऽध्यायः॥
न्याय वित्परिपत्स्थानं समा मुख्या प्रधानिका । दैवी राज्ञी मानुषीति तत्क्रमः कथितो बुधैः ॥ १
सप्तदशोऽध्यायः
इत्थंप्रकारेण पोडशाध्याय भूपालानों प्रासादेषु कल्प्यमानन्यायशालाया: लक्षणं प्रतिपाद्याधुना राजधान्यां पुरेषु देशेषु च स्थापनीयविविधन्या यशालानां लक्षणं विशदीकरोति - न्यायवित्परिषत्स्थानमित्यादिना । न्यायविदः प्राशिवाकमही. पालादिभिः समं प्रश्नोत्तरदानपूर्वकं न्यायस्थापनपरायणाः तत्तद्देशीयविषयविज्ञानवन्तः सूक्ष्मधियो महाजनाः, तेषां स्थान न्यायस्थापनादिकार्याय संमेलनस्थलं यत्तस्य सभेति साधारणव्यवहारो लौकिकः । सा च साधारणसभा मुख्यसभा प्रधानसभेति त्रिविधा विभक्ता भवति ॥
___ तल चाद्या देवप्रधाना । मध्यमा भूमिपालप्रतिकृतिप्रधाना । अन्त्या तु साक्षाद्भुपालप्रधानेति आन्तरालिकोऽभिप्रायः । अस्य विशदार्थस्तु-तत्र तत्र प्रामेषु स्थापनीयायामाद्यायां साधारणसभायामिष्टदेवताप्रतिकृति स्थापयित्वा तवत्येन नीतिज्ञेन पक्षपातराहित्यलसितदयादिगुणोत्तरेण महापुरुषेण प्रजानां
8.8. 40