________________
सामन्तैर्वा माण्डलिकैः प्रश्नोत्तरविधायिनी । सचिवासनसंयुक्ता तटस्थासनभाक्तथा ॥ ४ ॥ महाशालासमायुक्ता सर्वतोऽङ्गणशालिनी । दशदण्डादिकं मानं द्विद्विदण्डेन योजिताम् ॥५॥ विशद्दण्डकमानेन संयुतां कुम्भभासुराम् । शुद्धां वा मिश्रितां वापि कारयेच्छिल्पकोविदः ॥६॥
किञ्चतादृशप्रधानशालायां सिह्मासनं स्थापयित्वा तत्र साक्षादुत्तमक्षत्रियवंशोत्पन्नः भूपालैरेव स्थितिः कल्पनीया नान्यरिति सिह्मासनारोहणयोग्यजातिक्रमो मन्वादिस्मृतिप्रमाणसिद्धः । किञ्च पूर्वोक्तषोडशाध्यायप्रतिपादितरीत्या सार्वभौमस्य वा भूमिपालस्य वा प्रासादेषु न्यायादिविचारस्थले सिमासनं स्थाप्यम् । अत्र तु तादृशभूपप्रासादाबहिःस्थले नगरमध्ये वा स्थलान्तरे वा समुचिते प्रधानन्यायशालाख्यायां महाशालायां सिमासनस्थापन तत्तद्देशीयमाण्डलिक मुखपुरुषादिपरिषत्संमेलनस्थलस्थापनादिवैखर्या पूर्वस्माद्राजकार्यवशादेतस्य भेदः स्पष्ट एवेति मतिः
किश्चैतस्यां राजकीयप्रधानन्यायशालायां बहुदूरदेशवासिभिस्साकं तत्तत्कार्यविषयकप्रश्नोत्तरविधानलेखनकथनादिकार्यसमुचितं स्थलं सचिवादितटस्थपुरुषाणामासनजालं विरचय्य