SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ २८७ सर्वत्र मध्ययुक्तं तद्यक्षेशाधिपं विदुः ॥ २१ ॥ न कार्या विषम संख्या शिल्पकार्य विचक्षणैः । बदिति शिल्पिनः । अयापरो भेदो ज्ञेयः । मण्टपलक्षणानि स्तम्भानां वर्तुलत्वचतुरश्रत्यादिलक्षणानि च प्रकरणान्तरे दृश्यानि ॥ किञ्चात्र पूर्वभवन कल्पने एकत्रिपञ्चसप्तनवादिविषमसंख्या स्तंभेषु सर्वथा न कार्या । परन्तूद्धारमण्डलेऽत्र प्रतिपादितरीत्या सूत्ररीत्या निरीक्षणे स्तम्भानां युग्म संख्यात्वमेव । इदच युग्म संख्यात्वलक्षणं सर्वेष्वपि देवालय कल्पनेषु मानुषालय कल्पनेषु च संयोजनीयमिति परमज्ञानिनां मुनिपुङ्गवानामुपदेशः श्रेयसे बोध्यः । किचैवंप्रकारेण कल्पितेऽत्र पूर्वभवने पूर्वोक्तस्तम्भानां मध्ये समुचिते स्थले वेद्याख्यं स्थलविशेषं रचयेदित्युपदेशः ॥ केचित्तु नाम वेदी स्थाप्या । कुत: ? पूर्वोक्तरीत्या शिबिकादिवाहनारोहणादि सौकर्य भङ्गवत्त्वादिति । परं तु मसृणिमभूतले रेखाकारां बेदिं रचयेदिति । अयन्तु पक्षः काचित्क इति वयं मेर्वादिभवनोत्तमेषु भूपालादिमहापुरुषवासयोग्येषु प्रासादादिषु पुरोभागे कल्पितानां पूर्वभवनानां मध्ये समुचिते स्थले इष्टिकासुधादारुखण्डादिभिर्वेद्येव कल्पनीया । सैव तत्सौकर्यादिसंपादिकेति ब्रूमः ॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy