________________
२८६
कोणाकारवशात्सर्वपादाषोडश कीर्तिताः ॥ १९ ॥
युग्मद्वयश्चतुर्दिक्षु पतिद्वयषडव्रिकम् । पुरतो वेदपादश्च तत्र व्यत्यस्तमानकम् ॥ २० ॥ इत्येवं षोडशस्तम्भभवनं परिकीर्तितम् ।
पञ्चमप्रकारे कल्पने ईशानादिकोणभागेषु चतुलपि पादानाचतुष्कमुपघ्नस्तंभशैल्या कल्पनीयमिति ॥
एवमैन्यादिचतुर्दिग्भागेषु तत्र तत्र चतुःस्तम्भयुतकरूपनचतुष्कं स्थापयित्वा मध्ये महाङ्गणसहिते कल्पने कृते तदा षष्ठः प्रकारो व्यक्त इति ॥
सप्तमप्रकारे कल्पने तु षट्स्तम्भोपेतं पक्तिद्वयं निर्मापयित्वा पूर्वभागे वा पश्चाद्भागे वा स्तम्भचतुष्कम !!
अन्त्योक्तेऽष्टमप्रकारे कल्पने मुख्यद्वारसमीपे स्तम्भद्वयं तत्पुरतः स्तम्भचतुष्कं स्थापयित्वा तत्पुरतः पुनरपि स्तम्भद्वयं तत्पुरतः सम्भचतुष्कं च निर्माय पुनरपि पूर्वभागे सममानं वा वैशाल्योपेतं वा स्तम्भचतुष्कं स्थापनीयमित्यादिकः क्रमः उद्धारदर्शनेन युक्त्या ज्ञेय इति भावः ।।
इत्थं प्रतिपादितेन प्रबन्धेनैतादृशलक्षणान्विते पूर्वभवने खम्भानां षोडशावधिकमेव प्रमाणमुक्तं; नात: परमिति शिल्पविदां समयः । स्तम्भषोडशकाधिक्ये तत्तु कल्पनं मण्टपलक्षण