________________
२८५
सममानक्रिया सैव मध्ये वैशाल्यभाक्तथा । पक्षयोर्वेदपादैश्व युक्तं मध्येऽष्टपादकम् ॥ १८ ॥ चतुर्दिक्षु स्तम्भयुग्ममावारे च चतुःपदम् ।
अथ पूर्वभवनादिकल्पनेषु षोडशस्तम्भस्थापनक्रमं व्यनक्तिसममानक्रियेति । पूर्वोक्ते तावत्पूर्वभवने अष्टविधया शैल्या षोडश स्तम्भाः स्थाप्याः। एषैव शैली नयनानन्दकरी मता, न प्रकारान्तराणीति भावः । तत्राद्यः प्रकारो यथा - पूर्वोकमध्यनिर्माण मुख्यद्वारसमीपे चतुर वा आयते वा कल्पने सममाने सममानस्तम्भपङ्क्तिचतुष्के कल्पिते आया शैलीति भावः ॥
द्वितीयः प्रकारो यथा सैव कल्पना इतरस्तम्भमानापेक्षया मध्यमाङ्गणस्तंभानागतित्रैपुल्यं कृत्वा स्थापिता यदि
द्वितीया शैली मता ॥
पक्षयोरुभयोरपि सममानं
तृतीयः प्रकारो यथा स्तंभाष्टकं स्थापयित्वा तद्वाह्यद्वये च चतुरश्रं स्तम्भचतुष्कं
स्थाप्यमिति तच्छैली ||
चतुर्थः प्रकाशे यथा प्रथमावरणरीत्या चतुरश्रं स्तंभचतुष्कं तद्वदेव द्वितीयावरणे स्तम्भचतुष्कच स्थापयित्वा पूर्वादिषु चतसृष्वपि दिक्षु यमलौ स्तम्भौ कल्पनीयाविति तदीयक्रमः ||
--