________________
२८८
दशहस्तादिमानेन तुङ्गोच्छ्रायेण संयुतम् ॥ २२ ॥ शुद्धं वा मिश्रितं वापि मानसूत्रप्रमाणवित् । नानाकोपेतं नानातोरणमण्डितम् कल्पयेन्मतिमान्पूर्वभवनं मानवे स्थले || २३ || इति विश्वकर्मणी विश्वकर्मवास्तुशास्त्रे पूर्वभवनलक्षणनिरूपणं नाम
॥ पञ्चदशोऽध्यायः ॥
किञ्चैतादृशपूर्वभवनं पाञ्चालादिशैल्या एकया युतं वा शैल्यन्तरेण मिश्रितं वा यथाभिरुचि स्थापयेदिति भावः । किञ्चास्मिन्पूर्व भवने मानसूत्रादिप्रमाणविच्छिल्नकार्यतः स्थपत्यादिर्दशहस्तोत्तुङ्गादिस्तम्भक्रमं पूर्वोक्तरीत्या सक्षुद्राधिष्ठानसोपानं स्थापयित्वा नानाविधकलाख्यचित्र विशेषरचनाविशेषभासुरं तोरणादिमनोहरं प्रकल्पयेदिति पूर्वभवनलक्षणं सण प्रतिपादितम् । किश्चेदं पूर्वभवनं मानवसदनेष्वेव स्थाप्यम् | न तु देवालयेष्विति च क्रमो ज्ञेयः ॥
इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां
विश्वकर्मवास्तुशास्त्रव्याख्यायां
पूर्वभवनलक्षणकथनं नाम
पञ्चदशोऽध्यायः ॥