________________
२३९
चतुर्दशोऽध्यायः॥
अथ भवनलक्षणकथनात्मकं चतुर्दशाध्यायं विशिनष्टि - भवनं तदित्यादिना । अस्मिन्नध्याये प्रतिपादिताः श्लोकाः कचित्पौर्वापर्यव्यत्यासभाजो दृश्यन्ते । तत्र हेतुर्मातृकालेखकप्रमादः, आहोस्विग्रन्थकर्तुर्विश्वकर्मणः पठनशैली वा । तथापि सर्वस्फूर्तये पङ्क्तयों लिख्यते । यथा -- अस्मिन्नध्याये प्रथमतो भवनलक्षणं, तदनु तदपेक्षया किञ्चित्कल्पनाविच्छित्तिविशेषशालिनो हर्म्यस्य लक्षणं, पश्चात्तदपेक्षया किञ्चित्कल्पनाविच्छित्तिविशेषशालिनः प्रासादस्य लक्षणश्च प्रसक्तानुप्रसक्त्या प्रतिपादितं ज्ञेयम । तत्र प्राथमिकस्य भवनस्य लक्षणमाह - भवनमिति । परिखया प्राकारेण वा संघृते स्थले समुचिते चतुरश्रकल्पनेन निर्मितमेकसौधयुतं भवनमिति संक्षेपतो भवनलक्षणमुक्तं बोध्यम् । 'भूपदण्डद्वादशकमानहीनं तु नोत्तमम्' इत्युक्तत्वात् , अत्र भवनादिकल्पने कल्पनप्रमाणं तावत् भूपदण्डद्वादशकवैशाल्यवत्तथा दैये च भूपदण्डद्वादशकप्रमाणवदेव निर्दिष्टम् ।।
किश्च तादृशकल्पनस्य मध्यभागो वास्तुवेदीति व्यवह्रियते । किमर्थम् ? तान्तु वेदी शङ्कस्थानवन्मुख्यप्रमाणत्वेन स्वीकृत्य तदादि चतुर्दिक्षु मानादि निर्णेतुमिति । एवं सकलविधभवनेषु हम्र्येषु प्रासादेषु, अन्येष्वपि मानवसदनेषूनमेषु तादृशवास्तुवेदीस्थापनं तदादिप्रमाणकल्पनमप्यवश्यं ज्ञेयं शिल्पादरैः ।।