________________
२३८
वार्थलेन विहीनाश्चेत्तत्सीमान्तं हि कल्पनम् । द्वारमेलनमेवोक्तमिह सर्वत्र देयके ! १८ ॥ भित्तिशालासमायुक्तमेकद्वित्रिचतुस्तलम् । वातायनशतोपेतं चन्द्रशालासमन्वितम् ॥ १९ ॥ प्रासादनिर्माणयुतं सर्वतुसुखदं मतम् । हर्म्यमानाधिकोपेतं चतुर्दिग्भद्रसंयुतम् ॥ २० ॥
पूर्वशालाकलायुक्तं भित्तिशालाश्रितं तु वा । द्विपक्षं वा चतुःपक्षं द्विशालं वा त्रिशालकम् ॥ २१ ॥ चतुष्कोणे चतुर्दिा शाला वा कूट एव वा। मुखीकरणवैखर्या दृढभित्तिसमन्वितम् ।। २२ ।। जन्माधिष्ठानसंयुक्तमुत्तुङ्गांघिकशालकम् । चतुर्मुखं पञ्चमुखं षण्मुखं सप्तवक्त्रकम् ।। २३ ।। मुखीकरणमेवोक्तं भेदशालासमन्वितम् । भद्राकारं भद्ररूपं भद्रहीनमथापि वा ॥ कल्पनं कल्पयेच्छिल्पी युक्त्या मानादिना दृढम् ॥२४॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे
भवनलक्षणनिरूपणं नाम चतुर्दशोऽध्यायः॥