________________
मध्ये वार्थलसंयुक्तं क्वचित्तेन विहीनकम् । द्वारोपद्वारसंयुक्त मेकादितलभासुरम् ॥ ९ ॥ वास्तुवेदी रङ्गवेदी देववेदीति सा त्रिधा । तदादिमानं कथितं दिमानमपि सिद्धये ॥ १० ॥ वास्तुवेदी स्थले शाला महती सा प्रकीर्तिता । षडादिदशदण्डान्तं मानमस्याः प्रकीर्तितम् ॥ ११ ॥ पश्चाद्भागे पुरोभागे तदर्धा वा तदर्धका । क्षुद्रशालाथवा गेहं द्वाश्चतुष्कसमन्वितम् ॥ १२ ॥ सव्यापसव्ययोरेवं कल्पनं स्थापयेत्क्रमात् । भित्तिशालासमायुक्तं ससोपानाधिपीठकम् ॥ १३ ॥ भवने यत्समाख्यातं मानं तदधिकैयुतम् । तन्मानोपेतमथवा मध्यशालाप्रकल्पनम् ॥ १४ ॥ चतुर्दिक्स्थचतुष्कूटं तन्मध्ये वार्थलान्वितम् । मध्यशालाप्रमाणेन मानं दैादिकं भवेत् ॥ १५ ॥ चतुर्दण्डायतिश्शस्ता तय भानुदण्डकम् । एकादिपञ्चदण्डान्तं वार्थलं तत्र कल्पयेत् ॥ १६ ॥ चतुष्कोणचतुश्शालां तालवारादिमेलनम् । मध्य शाला प्रस्तरान्ता द्वितलादिरिहोच्यते ॥ १७ ॥