________________
अथ भवनलक्षणतिरूपणं नाम
1 चतुर्दशोऽध्यायः॥ भवनं तत्समाख्यातं भूपावासस्थलान्वितम् । चतुरश्रप्रमाणेन कल्पनेन समुज्ज्वलम् ॥ १॥ तदेव मालिकोपेतं सनिशान्तं विशेषतः । दीर्घकल्पन संयुक्तं नानालिन्दमनोहरम् ॥ २ ॥ नानाभौमसमोपेतं नानाशालासमुज्ज्वलम् । विमानरचनायुक्तं बहिरान्धारिकान्वितम् ॥ ३ ॥ समन्ताद्भित्तिसंयुक्तं महाशालासमायुतम् । चतुरभैरायतैर्वा कल्पनरपि शोभितम् ॥ ४ ॥ चूलीहऱ्यासमोपेत मध्यालिन्दसमुज्ज्वलम् । कूटकोष्ठसमायुक्तं पक्षिमित्यादिभासुरम् ॥५॥ पञ्चभिर्दशभिर्दण्डः कल्पनैश्च समन्वितम् । हर्म्यमेतदपि प्रोक्तं शिल्पज्ञैर्मुनिषचवैः ।। ६ ॥ भूपदण्डद्वादशकमानहीनं तु नोत्तमम् । शताधिकं तु देवानां नेष्यते मानवे गृहे ॥ ७ ॥ तस्मात्सर्वत्र शिल्पज्ञः खण्डहर्नायुतं तु वा । शुद्धं वा मिश्रितं वापि कल्पयेत्कल्पनाक्रमात् ॥ ८॥
1. अस्मिन्नध्याये मातृकायां श्लोकाः पौर्वापर्यव्यत्यासभाजः दृश्यन्ते । व्याख्या तु प्रसक्तानुप्रसक्त्या लिखिता। तस्मात् मूलं च व्याख्या च प्रत्येक द्वितम्।