________________
२४०
एतादृशवास्तुवेदीस्थापनादि न मानवे क्षुद्रगेहे युज्यते । तत्र तादृशकल्पनाभावादिति केचित । तन्मास्तु । तादृशवास्तुवेदीस्थाने चत्वरं वार्यातपादिपतनयोग्यं निर्माय तदादि मानगणनं कृत्वा सर्वतस्समुचितानि शालागृहादीनि निर्मापणीयानीत्यन्ये । वयन्तु सर्वथा साधारणदण्डद्वादशकप्रमाणहीनस्थले नेदं वास्तुवेदीस्थापनादीति ब्रूमः। तस्मादस्मिन्भवननिर्माणे तादृशवास्तुवेदीस्थाने महती शाला कार्या । तादृशशालाया वैशाल्यं भूपदण्डपञ्चकादिद्वादशान्तं कथितम् । देध्ये चैवं निर्दिष्टम् ॥ ___कथं नु खलु शक्यमे तादृशवैशाल्यादियुतां शालामिमां कर्तुम् ? युज्यत एव । कथं वा? दृढेष्टिकासुधादिभिर्मुखीकरणादिना। (मुखीकरणं=GOTi)। अस्या मुखीकरणवैखर्या विशदार्थस्तु - दासस्तम्भादिस्थापनान स्थले ऽतिविशाले एकदण्डावधि निनं यथा तथा भूमिलम्ब विधाय (भूमिलम् = 8 Marivतदुपरि क्षुद्राधिष्ठानमिष्टिकादिभिरिचय्य इष्टिकास्तम्भानस्थापयेत् । तथा क्रमशस्तत्र तत्र स्थलानुगुणं स्थापितानामिष्टिकास्तम्भाना. मान्तरालिकस्थलं त्वेकादिसप्तदण्डावधिकेन वा तदधिकप्रमाणेन वा साधारणकेन मानेनोपेतं स्थाप्यम ॥
किन्च तादृशस्तम्भान्सरालिकस्थलवैशाल्यानुगुणं सम्मामामौनस्यञ्च द्वादशहस्तप्रमाणादि स्थापयेत् । तदनु तादृशस्तम्भांना शिरोभागे निर्माणादिदार्थ सुधेष्टिकाभिः कचिदया