________________
२९६
मित्रभागे प्रहरणस्थानमुक्तं मुनीश्वरैः ॥ ९ ॥ मध्यभागे राजवेश्म नवसौधतलावधि । नानाशालासमोपेतं कूटकोष्ठाद्यलकृतम् ॥ १० ॥ शिखरावलिसंदृश्यं कल्पनाशतशोभितम् । वातायनशतोपेतं मध्यचत्वरमण्डितम् ॥ ११ ॥ पाञ्चाली मागधी चान्या शौरसेनी च वाङ्गिकी । कोसली चापि कालिङ्गी द्राविडीति क्रियाकला ।।
ईशानभागे राजकीयकुलदेवतालयम , सावित्रभागे कोशमन्दिर, मित्रभागे आयुधागारं, वास्तुभूमध्यभागे पूर्वोक्तनृपसौधतलमनोहरं भूपभवननिर्माणश्च कल्पयेदित्यर्थः ॥
एवमत्र राजवास्तुभागेषु कल्पनीयानि मन्त्रिसेनेशभवनान्यानि कोशागारायुधागारन्यायशालाभूपभवनादानि च पावाल्यादिक्रियाशैल्या कल्पनविशेषभासुराणि रचयेदिति शिल्पसमयः । तादृशी क्रियाशैली तावत्स्वकीयकल्पनादिप्रभावेन सर्वेष्वपि लोकेषु प्रसिद्धिमती मुख्या सप्तविधा कीर्तिता । यथा - 1. पाञ्चाली क्रियाशैली 5. कोसली क्रियाशैली 2. मागधी , 6. कालिङ्गी , 3. शौरसेनी 4. वासी
7. द्राविडी