________________
२२७
प्रसिद्धा शिल्पकार्येषु कल्पना शतशोभिनी ।
अस्य विशदार्थः — पाञ्चालादिदेशेषु क्रियमाणभवननिर्माणादिरचना पाचाली शैली । मगधादिदेशेषु क्रियमाणभवननिर्माणादिरचना मागधी शैली । शूरसेनादिदेशेषु क्रियमाणभवननिर्माणादिरचना शौरसेनी शैली । वङ्गादिदेशेषु क्रियमाणनिलय निर्माणादिरचना वाङ्गी शैली । कोसलादिदेशेषु भवननिर्माणादिरचना कोसली शैली । कलिङ्गादिदेशेषु क्रियमाण भवननिर्माणादिरचना कालिङ्गी शैली । द्राविडादिदेशेषु क्रियमाणभवनादिनिर्माणरचना द्राविडी शैलीति क्रमार्थो शेयः । सिन्धु सौवीरादिदेशान्तराणां शैस्यन्तराणामपि सर्वेषामष सप्तविधशैलीष्वेवान्तर्भावादिदमेव मुख्यत्वेनोक्तमिति भावः ||
किव बहुविश्वशिल्परचनालङ्कारादिना शिल्पकार्येषु प्रसिद्धामिमां पाञ्चाली वा मागधीमथवा शौरसेनीं कलामन्यां वाऽऽश्रित्यैव राजभवनादिमन्दिरनिर्माणं कार्यमिति शिल्पविदां समयः । किञ्च तत्रापि देशभेदेन पूर्वोक्त पाचाला दिक्रियाशैलीमां किञ्चित्किञ्चिद्भेदादिलक्षणेन विलक्षणतया प्रतिभाव्यात्सार्वभोगादिभूपालवर्गस्तदितरे धनिकादयो वा स्वकीयभवनादिनिर्माणकल्पनेषु तामेव शैली मुख्य कोटित्वेन संयोज्य कचिनिर्माणभागेषु स्वस्वदेशीयशिल्परचनाभेदांश्च प्रदर्शयेदित्यान्तरालिको भावः ॥