________________
२२४
पञ्चाशद्दण्डमानादि दण्डपञ्चशतावधि ॥ ३ ॥ प्रमाणमिह निर्दिष्टं भूमिपालस्य मन्दिरे । अथवा भागमानेन कारयेन्नृपमन्दिरम् ॥ ४ ॥ सूर्येकं वारणैकं वा तस्य मानमुदीरितम् ।
तादृश भूपालभवनाई वास्तु सीम्नस्तु वैशाल्यत्रमाणं पञ्चाशद्दण्डकमारभ्य पञ्चशतीदण्डकावधिकं मुनिभिनिर्दिष्टमिति समयविदः । तथा दैर्घ्यप्रमाणं तु तदपेक्षया द्विगुणितमिति भावः । अथवा 'चतुस्सप्त चतुष्षड्वा' इत्यत्र विवृतप्रमाणकोपेतं यथास्थललाभमिति विकल्पः ॥
इत्थं नन्दिनारदकाश्यपादिप्राचीनानां मतमनुसृत्य राजभवनवास्तुप्रमाणमुक्तम् । कचित्तु भागमानमिति व्यवहारात्तमप्यङ्गीकृत्य शिल्पकार्यज्ञानां सुख बोधाय भागमानक्रममाह - अथवेत्यादिना । पूर्वमुखादिग्रामेषु वा पद्मकादिनगरेषु वा तादृशग्रामनगरादिनिर्माणाय यावत्संख्याकप्रमाणकभूरङ्गीकृता तां तु भुवं द्वादशभागात्मिकामष्टभागात्मिकां वा विभज्य तत्रैकभागस्थले तादृशभूपालवास्तुभव नचिह्र स्थापयदिति भावः ।।
___ तथा च तन्न भागमेकं नृपमन्दिरादिमन्दिराक्रान्त भागैकादशकस्थलं वा भागसप्तकस्थलं वा इतरजनावासस्थानाक्रान्तं वा स्थापयेदित्यर्थोऽत्र ‘सूर्यकं वारणकं वा' इत्यनेम