________________
अथ नृपप्रासादभूमानलक्षणकथनं नाम द्वादशोऽध्यायः ॥
शुभदा चतुरश्रा भूर्भूमिपानां विशेषतः । पुरस्य मध्यभागे वा निर्दिष्टे वा स्थलोत्तमे ॥ १ ॥
भूप
प्रकर्तव्यं तल्लक्षणमनोहरम् । गभीरपरिखोपेतं द्वारोपद्वारशोभितम् || २ || चूली हर्म्य समायुक्तं पक्षिशालाभिरन्वितम् ।
॥ द्वादशोऽध्यायः ॥
अथ नृपप्रासादप्रमाणकथनात्मकं द्वादशाध्यायमारभते शुभदेत्यादिना । तत्र नानाविधनगरेषु चतुरश्रा वास्तुभूमिरेव भूपालभवनादिनिर्माणाय स्वीकार्येति मुख्यः पक्षः । सैव विजयादिसंपत्प्रदा चेति भावः । क्वचिदत्यन्तायतभूमिर्वा देयन्त्रिता भूरपि न दोषायेति भावः । स तु मध्यमः पक्ष इति ||
I
-
किश्च पुरमध्यभागस्थितां वा पद्मकादिनगरीषु निर्दिष्टभागस्थितां वा भूमिं स्वीकृत्य तत्र राजभवनं गभीरपरिखा संवृतं द्वारोपद्वारयुतं चूलीहर्म्याख्यचन्द्रशालादिबहुशालोपेतं कूटकोष्ठाद्यलङ्कृतनवभौमभासुरं बहुशिखर वातायनादिकल्पनाविशेषैनयनानन्दकरैरुपेतं च कारयेदिति भावः । पूर्वोक्तगभीरपरिखालक्षणं तु अनन्तराध्याये स्पष्टीकरिष्यते । तस्मात्प्राकारस्य
1