________________
२२२
शताङघ्रिमण्टपं वापि सहस्रांघ्रिकमण्टपम् । वार्षिकं मण्टपश्चैव मासमण्टपिकं तथा ।। २५ ॥ अन्यांश्च मण्टपाञ्छिल्पी कल्पयित्वा विधानतः । सचत्रां महाशालां वास्थलेन समन्विताम् ।। तत्तद्भागप्रमाणेन स्थापयेद्वास्तुमानवित् ।। २६ ।। इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे देवप्रासादभूमानकथनं नाम एकादशोऽध्यायः ॥
समुचिते भागे षोडशपाद मण्डपं वा शतपाद मण्डपं वा सति विभवे सहस्रपादमण्टपं वा यथाक्रमं मञ्जुल चित्रादिकवचितं स्थापयेत ॥
किन शिवस्य विष्णोर्वा मन्दिरे प्रथमद्वितीयप्राकारयोर्वा प्राकाशPatar स्थलान्तरे वा वार्षिकोत्सवमण्टपमासोत्सव मण्टपपक्षो त्सवमण्डप वसन्तोत्सवमण्टप विहारमण्डपस्थानमण्टपादीनन्यांश्व कल्पनाविशेषात्कारयित्वा यथाक्रमं तत्र तत्र जलातपादिशालाशिल्पवित्कल्पयेदिति
पातयोग्यत्रास्थलसहिता
बह्वीश्व
सङ्क्षेपेण देवागारभूमानलक्षणमुक्तं ज्ञेयम् ॥ २६ ॥
इति श्रीमदनन्त कृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां विश्वकर्मवास्तुशास्त्रव्याख्यायां देवप्रासादभूमानकथनं नाम ॥ एकादशोऽध्यायः ॥