________________
२२१
दृढार्गलसमोपेताद्वय भासुरम् ॥ २२ ॥
दशहस्तादि तत्तुङ्गमानमुक्तं मुनीश्वरैः । कूटकोष्ठसमायुक्तं विमानैरपि पण्डितम् || २३ ||
द्वारमान कमेणैवं भित्तिमानञ्च कल्पयेत । एकप्राकारमथवा प्राकारत्रय भासुरम् || २४ ॥
किञ्च तादृशसोपानालिन्दसहितानि तानि तु द्वाराणि तत्र तत्र दृढार्गलसंयुतकवादद्वयविलसितानि रचयेदिति भावः । एतादृशलक्षणान्वितगर्भगेह भित्तितुङ्गप्रमाणं तु दशहस्तमानभाक्कारयेदिति मुनिभिरुदीरितमिति भावः । सर्वथा दशहस्तौन्नत्यमानहीनमित्तिं न रचयेदिति ॥
किन तादृशगर्भगेहोपरितलं दृढं शिलावलीभिराच्छाद्य कूटकोष्ठादिसहितविमानं भासुरं शिल्पी कल्पयेदित्यर्थः । एतादृशगर्भकल्पनस्योपरि विमान कल्पनादिविषयस्तत्र तत्र वेद्यः ॥
कि तादृशग गेहयुनं पूर्वोक्तलक्षणसहितं शिवस्य विष्णोर्वा मन्दिरमेक प्राकारावृतम, अथवा स्थलविभवानुगुणं प्राकारत्रयावृतं वा पचप्राकारावृतमथवा सप्तप्राकारावृतं स्थापयित्वा तन्मन्दिरमध्ये शशिदेवभागे वा भल्लाटदेवभागे वा देवताभिषेकाद्यर्थं भद्रमण्टपं कल्पयेत ॥
अथवा तत्रैव भागे पूर्वमण्डपं वा स्थापयेत । अन्यत्र