________________
२२०
दण्डद्वयं तद्विगुणं गर्भगेहप्रमाणकम् । एकैकभागवृद्धथा तच्चतुर्दशकसीमकम् ॥ २१ ॥ सालिन्दं वा मुखद्वारं पतिसोपानभासुरम् ।
अथ गर्भगेहलक्षणमाह - देवतानामिति। देवागारमध्ये कल्पनीयं गर्भगेहं तु तद्गारवास्तुभूमिवशादेव स्थापयेदित्युपदेशः । अस्य विशदार्थस्तु - चतुरश्रवास्तुभूनिर्मितदेवालये गर्भगेहं चतुरश्राकारम , दीर्घवास्तुभूनिर्मितदेवालये गर्भगेहं दैाधिक्य. प्रमाणकम , कचिद्धनुराकारवटा गजपृष्ठाकारवत्कल्पयित्वा, तादृशगर्भगेहवैशाल्यं दण्डद्वयप्रमाणकं यदि कृतं तदा तद्विगुणप्रमाणं चतुर्दण्डदशदण्डपर्यन्तं वैशाल्यं यदि तदा तहिगुणितदैय॑श्च योजयेदित्यपि चोपदेशः ।।।
किश्च तादृशगर्भगृहं तु भूतलादुपरि क्षुद्राधिष्ठानयुक्तं वाऽधिष्ठानरहितं वा निर्माय पञ्चषादिद्वात्रिंशत्सोपानावलीयुत अतितुङ्गगभीराकृति स्थापयेत् । किश्च तत्र च पूर्वोक्तरीत्या प्रधानदेवीवेदीसमीपलमारभ्य गर्भगेहान्ते द्वारपालकयोः स्थानमुभयपक्षयोः पञ्चाधिकद्वाराणि वा, द्वित्रिचतुर्दाराणि वा निर्माय तयोरियोर्मध्ये तेषां वा द्वाराणां मध्येऽलिन्दकत्रयं वा स्थलानुगुणं कारयेदिति । तत्र च प्रत्यलिन्दं सोपानावल्यां किचित्किञ्चिदौन्नत्यं क्रमेण स्थापनीयमिति नियमः ॥