________________
२१९
पद्मनाभमुखानन्यान्स्थापयद्विष्णुमन्दिरे ॥ १६ ॥ आसीनं वा शयानं वा तिष्ठन्तं वेदिकाश्रितम् । गौरीपति वृषारूढं सन्ध्यानटमथापि वा ।। १७ ॥ किरातं दक्षिणामूर्ति गङ्गाधरमथापि वा।। चन्द्रशेखरदेवं वा पशुनायकमेव वा ॥ १८ ॥ लिङ्गमूर्तीः क्षेत्रमूर्तीस्तीर्थमूर्तीश्च सर्वतः । अन्याश्च देवतामृर्तीः स्थापयेच्छिवमन्दिरे ॥ १९ ॥
अथ गर्भगेहप्रमाणकथनम् ॥ देवतानां गर्भगेहं वास्तुभूमिवशान्मतम् ।
दीर्घ वा चतुरश्रं वा धनुर्वद्गजपृष्टकम् ॥ २० ॥ माहात्म्यादिषु निर्दिष्टं देव बिम्ब वा पद्मनाभप्रमुखानन्यांश्च देवान वा विष्णुमन्दिरे स्थापयेदित्यर्थः ।।
शिवमन्दिरे तु गौरीकान्तं वृषारूढं, अथवा सन्ध्यानटं किरातं, दक्षिणामूर्ति , गङ्गाधरम् , अथवा चन्द्रशेखरं पशुनायकम , अथवा पृथिव्यादिपञ्चविधलिङ्गमूर्तीर्वा पूर्वोक्तवत्तत्तत्क्षेत्रनाथान वा तीर्थलिङ्गादीन् वा तस्यां गर्भगेहवेदिकायां शुभ मुहूर्ते स्थापयेदिति च क्रमः ॥
किञ्चैतादृशदेवबिम्बानां सपरिवारकलत्राणां आयुधवर्णनिर्माणादिप्रकारस्तु शिल्परत्नादिशास्त्रान्तरेषु तत्र तत्र द्रष्टव्यः।।