________________
२१८
मित्रदौवारयोर्मध्ये वास्तुमध्येऽथवा पुनः । गर्भगेहं प्रकर्तव्यं देवादीनां शुभप्रदम् ॥ १३ ॥ वाराहं नारसिद्मं वा श्रीधरं वा जनार्दनम् । अच्युतं पुण्डरीकाक्षमनन्तशयनं पुनः ॥ १४ ॥ नारायणं केशवं वा माधवं पुरुषोत्तमम् । वैकुण्ठनाथमथवा गोविन्दं वा त्रिविक्रमम् ॥ १५ ॥ श्रीरामं वासुदेवं वा क्षेत्रनाथमथापि वा।
समुचिते स्थले प्राकारमध्यभागे वा प्राकाराणां बहिःस्थले वा यजमानेच्छया कारयेदिति तादृशवैशाल्यवस्थलानुकूलविकल्पः ।।
किश्च देवागारवास्तुमध्यप्रदेशे वा मित्रदौवारिकभागयो देवादीनां सलक्षणं शुभप्रदं गर्भगेहं निर्मापयित्वा, तदन्तश्शुद्धां देववेदीञ्च कल्पयित्वा, तदुपरि आसीनदेवबिम्ब वा शेषभोगादिषु शयानदेवविम्ब वाऽथवा तिष्ठन्तमुज्ज्वलं देवं स्थपत्यादिभिशुभे मुहूर्ते स्थापयेत ।।
के ते देवा इत्याकालायामाह - वाराह मिति । भूदारकमादिवराह वा नरसिझं वा लक्ष्मीनरसिमं वा श्रीधरं वा जनार्दनम , अथवाऽच्युतं पुण्डरीकाक्षम , अथवाऽनन्तशायिनं नारायणं केशवं माधवम , अथवा पुरुषोत्तमं वैकुण्ठनाथं गोविन्दं त्रिविक्रमं वा दाशरथिं वासुदेवम् ,अथवा तत्तत्क्षेत्र