________________
२१५
रोगे वा वह्निभागे वा शाला वैवाहिकी मता । मित्रे वा शोषभागे वा देवीस्थानं प्रकीर्तितम् ॥ ११ ॥
भास्करे भूधरे भागे परिवारांच कल्पयेत् । द्रव्यशाला भुजङ्गे स्यादुद्यानमपि तत्स्थले ।। १२ ।
रोगभागे वा वह्निभागे वा वैवाहिकशाला विवाहमण्टपो वा कल्प्यः । एवं विकल्पकथनं तु एकप्राकाराद्यावृतस्थलानुगुणमिति बोध्यम् ॥
एवं मित्रभागे शोषभागे वा लक्ष्मीगौर्यादिजननीनां आवासस्थानं साधिष्ठानं, सविमानं, सालिन्दं स्थापनीयम् | प्रायिकलक्षणमिदमिति मन्तव्यम, ग्रन्थान्तरेषु स्थलान्तरे तादृशलोकजननीवर्गस्थापनस्योक्तत्वादिति ॥
एवं भास्कर भागे वा भूधरभागे वा अनन्तगरुडविष्वक्सेनवृषभनन्दि प्रमुखानामीश्वरभक्तानां पृथकू क्षुद्रमन्दिरं स्थापयेत् । कि पूर्वोक्तगरुडहनुमद्वृषनन्दि प्रमुखानामीश्वरभक्तानां साञ्जलीनामीशस्य पुरोभाग एव स्थापनं तु प्रन्थान्तरचोदितमिति मतिः । भुजङ्गभागे नैवेद्यार्हद्रव्यशालां छत्रचामरबाद्दनादिस्थापनशालादश्चि कल्पयित्वाऽवशिष्ट तद्भागस्थले,
अथवा सावित्रे रविभागे चोद्यानमीशोत्सवाहमण्टपयुतं सतदाकं कारयेत् । अथवा तटाकमुद्यानाद्वहिःस्थले देवागारबास्तुभागे
8. s. 28
वा