________________
૨૨૯
प्राचीमुखं प्रकर्तव्यं प्रायशो देवमन्दिरम् ॥ ९ ॥
गन्धर्वभागे वानेय्यां कीर्तितः पचनालयः । भल्लाटे दन्तके वापि यागशाला विधीयते ॥ १० ॥
प्रायश:
किश्चैतादृशलक्षणान्वितगर्भगे होपेतं देवागारं प्राङ्मुखमेव कार्यम् । कचिच्छित्रमन्दिरे विष्णुमन्दिरे च तत्तत्क्षेत्रपुराणादिप्रमाणवशाद्वा, तत्तद्देवमूर्तिलक्षणत्रशाद्वा दक्षिणमुखद्वारं, पश्चिममुखद्वारं, उत्तरमुखद्वारश्च कल्पनीयमिति च संप्रदायविदः । तत्रापि देवागारस्य भूमिलम्बनपूर्वकस्थापित महाधिष्ठानस्थितगोपुरसहित द्वारमेकं, द्वारयुग्मं वा, द्वारचतुष्कं वा यथाविभवं स्थापयेदिति भावः । सर्वथा न द्वारत्रयम् । इदच भूपागारेऽपि योज्यम् । द्वारयुग्मकल्पनन्तु नगरलक्षणोक्तरीत्या प्राक्प्रत्यग्दिशोर्वा दक्षिणेत्तरयोर्वा समसूत्रं स्थापनीयमिति नियमः । कचिच्छिल्पाचार्यैच्छया व्यत्याससूत्रभागपि सगोपुरमुखद्वार कल्पनं विहितम् । तच्च तावत्प्रायशो नगरमध्यभागे चतुर्दिग्भद्रयुतद्वार चतुष्कोपेतमन्दिरविषयकमिति समयः ॥
किन पूर्वोक्तरीत्या प्रशस्ततमे दीर्घवास्तुभूभागे स्थितस्य सकलविधदेवागारस्यापि महान सस्तावदा मेयदि कोणगतगन्धर्वभागे कहप्यः । भल्लाटभागे वा दन्तकभागे वा यागशाळा कल्प्या ॥