________________
२१५
द्वारपश्चकहीनं तत्कारयेत्र कदाचन । द्वारमेकं द्वारयुग्मश्चतुरमथापि वा ।। ८ ॥ महाधिष्टानसंयुक्तङ्गोपुरैश्च समुज्ज्वलम् ।
एतदधिकप्रमाणवास्तुद्वारेष्वपि संख्याप्रमाणक्रम एवमेवोर इति । किश्चात्रोद्धारे प्रतिपादितेषु द्वारेषु नवमादिद्वादशान्तानि गोपुरद्वाराणीति समयः। द्वारान्तराणि तु गर्भगेहालिन्दमुखमण्टपद्रव्यशालादेवीगृह परिवारगृहादिस्थलेषुतत्प्रमाणवन्ति स्थाप्यानीति भावः। पूर्वप्रतिपादितरीत्या इमान्येव द्वारलक्षणानि सर्वेष्वपि मानवगेहादिषु संयोज्यानीति पिण्डितार्थः ।।
मतिमान् श्रद्धालुश्शिल्पज्ञश्शिल्पी नृपो वा देवागार पञ्चद्वारविहीनं न कदापि कारयेत् । मानवालयेष्वप्येवमेव । अयञ्च शास्त्रीयो नियमः । केचित्तु गर्भगेहे एव द्वारपञ्चकन्यूनत्वं सर्वथा न कार्यम् । कथम् ? गर्भगेहे वेदिकासमीपे प्राथमिक द्वारं , ततः किश्चिदूरस्थं द्वितीयं द्वारमित्यादि। अयमच प्रथमः कोष्ठः प्रथमकक्ष्य इति । एवमेव द्वितीयकोष्ठनिर्माणस्थले द्वारयुग्मम् । ततो द्वारपालकस्थापनाहवेद्युपेतं द्वारं पञ्चममिति । अयञ्च पक्षः स्पृहणीय इत्येव ब्रूमहे । प्रामनगरस्थापितदेवागारेषु सर्वेष्वप्ययमेव क्रमो यजमानेच्छया कल्पनीय इति प्रकृतमनुसरामः॥