________________
२१२
अथ सकलविधद्वारप्रमाणक्रमः ॥
दण्डत्रिपादमानं वा दण्डार्ध वाथ दण्डकम् || ६ | द्वारमानमिति प्रोक्तं शिल्पशास्त्रविशारदैः ।
प्रधानानां केशव माधव वासुदेव पशुपति गङ्गाधरादिबिम्बानां कल्पनन्तु मध्यमदशनालेनेत्यादिक्रमो बहुविस्तरः ||
तदनुकूलं तादृशबेरतालादिमानानुकूलं गर्भगेहूं कल्पयित्वा तदनुगुणं पूर्वमण्टपभद्रमण्ट पध्वजस्तंभबलिपीठप्राकारादिकल्पनमुत्तुङ्गरचनादिमञ्जुलं कल्पयेदित्यादिक्रमस्तु अत्र विस्तरभयात् न प्रतिपाद्यत इत्यलं विस्तरेण ॥
अथ
गर्भगेद्वारादिबहुविधद्वारप्रमाणमाह - दण्डत्रिपादमानमिति । आयादिलक्षणे तावत सर्वेषां सुलभस्फूर्तये साधारण दण्डोऽयं षड्भागेन विभक्तः । तादृशभागक्रमेणात्र किचिल्लक्षणमुच्यते । यथा सकलं देवागारद्वारं भूपालभवनद्वारमन्येषां जनानामावासगेहद्वारन तादृशभागत्रयवैशाल्यवत्कृतं यदि तदा औन्नत्ये भागषट्कप्रमाणकार्यमित्यर्थः ॥
अयमेव पश्नो प्रन्थकर्तुरस्याभिमततम इति प्रतिभाति । तथापि नन्दिवास्त्वादिप्रन्थान्तरे द्वारप्रमाणस्यान्यथोक्तत्वात्, तथ सङ्ग्रहेणाह - दण्डत्रिपादमानं वेति । कचित् स्थलविशेषे कल्पनाविशेषे च द्वाराणि वामद्वैशाल्ये भागत्रयप्रमाणादिकृतानि