________________
२११
द्विशतं त्रिशतं वापि चतुःपञ्चशतानि वा ॥ ४ ॥ षट्शतं वा सप्तशतं शताष्टावधि भाषितम् । स्थलानुकूलं कथितं भपालस्येच्छयाऽथवा ॥ ५ ॥ अथवा मूर्तिभेदेन देवगेहप्रमाणकम् ।
किश्च स्थलवैपुल्यादिके भूपालादिनिर्मातुरिच्छायाश्च सत्यां तदा वैशाल्ये शतदण्डप्रमाणोपेतं वा द्विशतदण्डप्रमाणोपेतं वा त्रिशतदण्डप्रमाणोपेतं वा चतुश्शतदण्डप्रमाणसहितं वा पञ्चशतदण्डमानोपेतं वा षट्शतदण्डमानोपेतं वा सप्तशतदण्डमानोपेतं वा अष्टशतदण्डमानोपेतं वा तदनुकूलदैर्घ्यसहितञ्च स्थापयेदिति विकल्पः ॥
किञ्च शताष्टकदण्डावधिकमेव वैशाल्यं देवागारस्येति च निर्णीतं प्राचीनैर्मुनीश्वरैः । तच्चात्यन्ताधिकप्रमाणवत् अशक्यकार्यमिति अर्वाचीनाः । इत्थं दण्डप्रमाणेन देवागारलक्षणमानमुक्तं शास्त्रकारेण ॥
अथापि प्रन्थान्तरेषु काश्यपादिमतान्तरेषु च तत्तद्देवमूर्त्यादिभेदानुगुणं अगारप्रमाणं कार्यमित्युक्तत्वादिदमप्यङ्गीकृत्याहअथवा मूर्तिभेदेनेति । मूर्तीनां भेदस्तावत्प्रायशो लोके दशतालादिमानवत् । पराक्रमप्रधानानां किरातवृषभारूढरघुनाथादिदेवबिम्बानां दशतालमानेन कल्पनमुक्तम् । दयाशान्त्यादि.