________________
२१०
दीर्घवास्त्विति शिल्पज्ञैः कीर्यते देवतालये । समां समां वास्तुभूमिश्चतुरां विदुर्बुधाः ॥ ३ ॥ पञ्चाशद्दण्डकं वापि शतदण्डमथापि वा।
वैशाल्ये चतुर्भागो दैये षड्भागः ३
वैशाल्ये चतुर्भागो दैये पञ्चभागः ४ इत्येवं लक्षणान्वितं दीर्घवास्तुस्वरूपं चतुर्विधं शिल्पशास्त्रकोविदैरुक्तमिति भावः । यदि वैशाल्ये चतुर्भागो दैर्ये च चतुर्भागप्रमाणकस्तदा तां तु वास्तुभूमि चतुरश्रामिति च प्राहुरित्यर्थः । जनार्दननारायणचन्द्रशेखरपशुपतिप्रमुखानां प्रधानदेवमूर्तीनां लक्ष्मीगौर्यादिप्रधानदेवीविम्बानां च गर्भगेहादिकं न वर्तुलवास्तुभागे कल्पनीयम । परन्त्वस्मिन्नेव चतुरश्रदेवभूभागे वा दैर्घ्यदेवभूभागे वा स्थापनीयमिति नियमः। अस्य विशदार्थस्तुजनार्दनपशुपत्यादीनां प्रधानदेवानां देवीनाञ्च गर्भगेहं चतुरश्रं वा दैर्ध्याधिक्यवद्वा, धनुराकृतिवद्वा गजपृष्ठाकृतिवद्वा स्थापनीयम् । अन्यत्र देवतान्तराणान्तु कचिन्हं वर्तुलाकारवदपि न दोषायति ।।
___अथ देवालयप्रमाणादिकमाह - पञ्चाशदित्यादिना । मण्डकादिमामेषु पद्मकादिनगरेष्वपि तत्र तत्र यथास्थलविभवं वैशाल्ये पश्चाशदण्डप्रमाणोपेतं देवागारम् । दैये तु पूर्वोक्तरीत्या शतदण्डकं वा तन्यूनसंख्याकं वा स्थापयेदिति शिल्पविदा समयः॥