________________
अथ देवप्रासादभूमानकथनं नाम
एकादशोऽध्यायः॥
देवानां वास्तुभूमिस्तु प्रायो दैर्ध्यान्विता मता। पुरस्य मध्यभागे तु चतुरश्रापि सा मता ॥१॥ चतुरष्टकभागाख्यो निर्णयः परिकीर्तितः । चतुस्सप्त चतुष्षड्वा चतुःपश्चापि वा क्वचित् ॥२॥
॥ एकादशोऽध्यायः॥ अथ देवप्रासादभूमानलक्षणकथनात्मकमेकादशाध्यायमारभते - देवानामिति । देवालयनिर्माणाय वास्तुभूमिस्वावप्रायशो दैयान्वितैव प्रशस्ता मता । कैलासनित्यमङ्गलप्रामादिषु स्वस्तिकपद्मकसर्वतोभद्रकादिनगरेष्वपि वास्तुमध्यभागे यदि तादृशदेवतागारकल्पनं तदा तादृशमध्यप्रदेशेषु चतुरश्रप्रमाणभूमिरपि स्वीकार्य न दोषायेति भावः ॥
अथ दीर्घवास्तुभूमेः चतुरश्रवास्तुभूमेश्च कीदृशं लक्षणमित्याकालायामेतयोर्लक्षणं स्पष्टं विशिनष्टि - चतुरष्टकेत्यादिलोकायेन ॥
वैशाल्ये चतुर्भागो देर्थेऽष्टभागः १ वैशाल्ये चतुर्भागो दैये सप्तभागः २ s. . 27