________________
२०८
शालाभित्त्यङ्गणोपेतं तत्र तत्र च वार्थले । दुर्भेद्यमरिसेनाभिर्यन्त्रगर्भितकुड्यकम् ॥ ४६ ॥
इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे
दुर्गलक्षणकथनं नाम दशमस्सर्गः (अध्यायः) ॥
किश्चात्र युद्धदुर्गनगरे मतिमाञ्छिल्पी प्राकारभित्त्यादिस्थलेषु उपकुड्यादिकं तत्र तत्र वैरिनिरसनार्थ नानाविधयन्त्रस्थापनमन्यच्च बहुविधरक्षाकरं स्थानविशेषश्च स्वीयकौशल युक्त्यादि. भिरूह्य यथाक्रममरिभिरभेद्यश्च कारयेदिति मरूपतो दुर्गलक्षणादीनि प्रतिपादितानि ॥ ४६॥
इति श्रीमदनन्तकृष्णभट्टार कविरचितायां प्रमाणवोधिन्याख्यायां
विश्वकर्मवास्तुशास्त्रव्याख्यायां द्वादशविधदुर्गविधानकथनं नाम
दशमोऽध्यायः॥