SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २०७ वीथीषु क्षुद्रवीथीषु मुखभद्रकमण्डितम् । युग्मसंख्यकवाटादियुक्तभागत्रयोज्ज्वलम् || ४५ ॥ नानाजातिगृहोपेतं भूपालस्येच्छयाऽथवा । स्थापयेत् । दुर्गकूटो नाम आधोरणनिवेशनार्हस्थलबहू रतर भूभागस्वरूपादिनिरीक्षणार्थं कल्प्यमाना वेदिरुच्यते । ताभिस्सहितमिति पूर्वेणान्वयः । किश्व वराकनं नाम तत्तत्समयनिवेदकघण्टावादनस्थलम् | तेन चोपेतमित्यर्थः । इव लक्षणं पद्मकसर्वतोभद्रवैजयन्तराजधान्यादिषु वाच्यमिति हृदयम् ॥ किञ्चात्र दुर्गाद्वहिः प्रदेशे महामार्गसमीपे जनानां विश्रान्त्यर्थं कल्पनीय महाशालादिकं करणीयम् । किञ्च नगरेऽस्मिन् प्रतोलिकासु वीथीष्वपि क्षुद्रवीथीषु तत्र तत्र वीध्यन्तरारम्भस्थळे चतुरश्राकारा वा वर्तुलाकारा वा क्षुद्रमण्टपादयश्च स्थापनीयाः । किश्वेदं दुर्गं युद्धदुर्गनगरं नगरमुखद्वारभागे राजभवनमुखद्वारभागे च पूर्वोक्तवदत्यन्तदायपादनाय द्विद्विकवाट सहितद्वारभागत्रययुतश्च कल्पनं मञ्जुलं स्थापयेत् ॥ पूर्वोक्तमहापरिखाभित्तेरन्तर्भागे कल्पितजनावासस्थानानामधोभाग एव नगरजलधार प्रसारणमार्गस्तदपेक्षयाऽगाधवदुर्गभाकरणीय इति लक्षणमेतदपि पद्मकादिन गरेध्वपि कल्पनीयमिति भावः ॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy