________________
२१३
तदेकभागवृद्धयात्र सर्वद्वारप्रमाणकम् ॥ ७॥ यदि तदा औन्नत्ये सार्धचतुष्कभागप्रमाणानि वा भागत्रयप्रमाणानि वा सममान कार्याणीति च भेदः ॥
किमर्थमिदम ? तदापि युज्यते । कुत्र ? गोपुरतलादिषु स्थलान्तरेषु च। तच्च तत्र नत्र द्रष्टव्यमिति भावः । तस्माच्छैल्याऽनया शिल्पकार्यज्ञस्सर्वाण्यपि द्वाराणि तादृशपूर्णदण्डादिभागेषु एकैकभागवृद्धिमत्प्रमाणकानि स्थापयेदित्यों निगलितः । तत्प्रमाणद्योतकोऽयमुद्धारोऽत्र सुलभस्फूर्तये लिख्यते - राजधान्यादिषु कचिन्महानगरेषु स्थलविभवतः कल्पितसप्तप्राकारावृतदेवागारे तु द्वादश द्वाराणि स्थाप्यानि । तेषां सर्वेषां द्वाराणां वैशाल्यौनत्यप्रमाणक्रमद्योतकोद्धारो यथा- पूर्वोक्तरीत्या दण्डे षोढा विभक्ते पादप्रमाणं,नृपदण्डे षोढा विभक्ते महापादप्रमाणमिति च आयादिलक्षणोक्तरीत्या गर्भगृहद्वारादिसर्वद्वारोन्नत्यवैशाल्यमानमत्र तादृशपादमानेन लिख्यते । यथा