________________
२.०.२
अथ दशमस्य पारावतदुर्गस्य लक्षणम् ॥ सञ्जाते तुमुले युद्धे स्वयमागत्य भूमिपः । खात्मरक्षादिकं कर्तुं कृतं तात्कालिकं स्थलम् ॥३४ ।। पारावताख्यं निर्दिष्टं दुर्गलक्षणपण्डितैः । स्यन्दनैर्वारणैरश्वैर्योधैरायुधधारिभिः ॥ परितो रक्षितं दुर्ग मूलसैन्यैरनेकधा ॥ ३५ ॥
अथैकादशस्य प्रभुदुर्गस्य लक्षणम् ॥ वनमध्ये गिरेस्सानौ दुष्प्रवेश्यस्थलेऽथवा । अगाधपरिखोपेतं क्षुद्रपुर्या समन्वितम् ।। ३६ ॥
अथ पारावतदुर्गलक्षणमाह - सञ्जात इति । मिथो भयकरसमरसंभवे सञ्जाते सति कश्चिद्भपतिः स्वात्मरक्षणार्थ रथादिचतुरङ्गसेनाबलाभिरक्षितं तात्कालिकं यत्स्थलं करोति, तत्पारावतदुर्गमिति उच्यत इति दुर्गलक्षणज्ञा वदन्तीति भावः ।।
तत्रापि तादृशसेनास्थापने प्रथमतः स्यन्दनबलस्थापनं तदन्तर्वारणपक्तिस्तदन्तर्वाजिश्रेणिस्तदन्तः पदातिरायुधधारीत्येवं पङ्क्तिशः स्थापनक्रमादयो महाभारतरामायणस्कान्दादिषु प्रतिपादिता द्रष्टव्याः ॥ ३५ ॥ __अथ एकादशस्य प्रभुदुर्गस्य लक्षणमाह - वनमध्य इति । बनमध्ये पां गिरिसमीपतले वा अन्यत्र दुरधिगमे स्थले