________________
एकाननेन संयुक्तं द्वारोपद्वाररक्षितम् । मध्ये छन्नपथोपेतं प्राकारद्वादशावृतम् ॥ ३७॥ क्षुद्रोपक्षुद्रकर्णाढ्यं विमानैरपि मण्डितम् ।
मध्यस्थभूपभवनं दुर्गान्तरसमावृतम् ॥ ३८ ॥ वा कल्पितं दुर्ग प्रभुदुर्गनामभाग्भवति । कीदृशलक्षणान्वितं प्रभुदुर्गमिति चेदाह- समन्ततोऽगाधपरिखासंवृताङ्गणं, वास्तुमध्यभागे चतुर्मुखनगरवत्प्रतोलिकाशताढ्यक्षुद्रपुरयुक्तं प्राच्या वोदीच्यां वा मुखद्वारेणैकेनातितुङ्गगोपुरेणोपेतं पूर्वोक्तरीत्या तत्र तत्र दुर्गादिस्थलेषु सर्वत्र द्वारोपद्वारकल्पनावशादरिभिरभेद्यं मध्यभागे समुचिते स्थले सुरङ्गादिच्छन्नपथसहितं च । पुनः कीदृशम् ? दुर्गमिदं तावत् द्वादशप्राकारभित्तिसमावृतं नगरमध्यभागाख्यवास्तुनाथस्थलकल्पितभूमिपालभवनमञ्जुलम् , । तादृशभूपभवनं परितो दुर्गान्तरकल्पनश्च कार्यमिति भावः । दुर्गान्तरं नाम परिखान्तरमित्यर्थः । तादृशपरिखाया: बहि:स्थितपरिखायाश्च मुखद्वारं क्षुद्रोपक्षुद्रकर्णान्यं कारयेत् ॥
कर्णस्तावत्तत्र तत्र दुर्गभित्तिषु त्रिकोणवतुलचतुरश्राकारयूषकाख्यकल्पनाविशेषः कलरवावासस्थानम् । कर्णप्रमाणहीनः क्षुद्रकर्णः। तस्मादपि हीनप्रमाणक उपक्षुद्रकर्णः। तैस्सहितमित्यर्थः । किञ्च अष्टस्वपि दिशासु विमानाकारक्षुद्रगोपुरसहितदुर्गभित्तिमत् ॥