SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ 2.१ इष्टिकाभिदरुिखण्डैणवस्त्रपटादिभिः । प्रच्छन्नमार्गसंयुक्तं कल्पनं यन्त्रगर्भितम् ॥ ३२ ॥ पञ्चषैस्सालकैर्युक्तं पङ्काद्यैश्च समन्वितम् । तात्कालिकं कल्पनञ्च परमोहकरं परम् || ३३ ॥ भिर्भूपालैः कचित्तत्वात्मवैरिवृन्द प्रतारणार्थं समरादिसमयेषु युक्तया आयुधादिभिस्तांश्च रिपूंस्तम्भीकर्तुश्च क्षममिष्टिकादारुखण्डचणपटादिभिस्तात्कालिकः कल्पितः स्थलविशेषः कूर्मदुर्ग - मित्युच्यते । एतत्तु दुर्गं वनमध्यस्थले वा गिरिसानुभागे वा कल्पयित्वा तदन्तर्बहुविधयन्त्रगर्भितं प्रतारणस्थल स्थापयित्वा तहारेषु सुरङ्गादिप्रच्छन्नमार्गश्च रचयेदित्यर्थः ॥ किचैतादृशदुर्गमभितः पङ्कपरागादिचयैर्वा भित्तिभ्रमकरसुधाधवलितदारुखण्डादिकल्पित सालैरावृतं वा रचयेत् । एतादृशलक्षणान्वितं तात्कालिकमस्थिरं दुर्गमुद्वीक्ष्य रिपत्रस्ते तु भ्रमादृढदुर्गमिति भ्रान्तियुतास्स्व सैनिकायुधादि प्रेरयवशाद्वयर्थीकृतबला भवेयुरिति भावः । तदन्तःस्थलवर्तिनो नरपालादयस्तु तादृशरिपुसेनानिरोधक्षण एवं पूर्वोक्तप्रच्छन्न मार्गेण बहिर्निष्क्रम्य दुर्गान्तरमुरुबल रक्षकमाश्रयेयुरिति समरकलाकोविदः || तस्मादेतदर्थङ्कल्पितस्यास्य कूर्मदुर्गस्य पांसुदुर्ग पङ्कदुर्गमिति च नामान्तरं केचिदुशन्तीति मतिः ॥ ३३ ॥ 8. 8. 26
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy