________________
२००
दृढार्गलसमोपेतकवाटद्वयशोभितम् ॥ २९ ॥ सोपकुड्यां दुर्गभित्तिं रचयेदश्मनिर्भराम् । स्थलानुकूलतः स्थाप्यमन्यावासस्थलादिकम् ॥ ३०॥
अथ नवमस्य कूर्मदुर्गस्य लक्षणम् ॥ प्रलोभनाय शत्रूणां स्तम्भनाय च युक्तितः ।
वनमध्ये गिरस्सानौ कल्पितर्मदुर्गकम् ॥ ३१ ॥ द्विमुखदुर्ग चतुर्मुखदुर्गश्चेति । पुरन्दरदिशि स्थापितेनैकेन मुखद्वारेणो. पेतं एकमुखदुर्गमिति दक्षिणोत्तरमुखयोः स्थापितेन मुखद्वारद्वयेनोपेतं द्विमुखदुर्गम् । प्राच्यादिचतुर्दिङ्मध्यभागे समचतुस्सूत्रं वा स्वस्तिकाकाररीत्या परस्परं किंचिद्वयत्यस्तस्थलस्थितं वा स्थापितेन मुखद्वारचतुकेणोपेतं चतुर्मुखदुर्गम इत्यन्वर्थनाम बोध्यम् । एतादृशदुर्गत्रयेऽपि पूर्वोक्ताकारपञ्चकाद्यावृतत्व मवश्यं करणीयमिति शिल्पसमयः ॥
अपि च तादृशद्वारं तादृशार्गलमधिष्ठानादिकबाटद्वयसहित च कल्पयित्वाऽत्यन्तदाढ्यादिकारिणी मुखभित्तिं दुर्गभित्तिमिलितां कारयित्वा दृढशिल्पावलीभिः कवचितमुखभद्रसहितञ्च स्थापयेत् । यदि स्थलवैशाल्यादिविभवः तदनुकूल मत्र दुर्गे क्षुद्रनगरलक्षणान्वितानि वा महानगरलक्षणान्वितानि वा इतरजनावासभवनादीनि च यथाक्रमं स्थापयेदिति संक्षेपेण लक्षणमुक्तं भवति ॥ ३० ॥
अथ कूर्मदुर्गलक्षणमाह ..~- प्रलोभनायेति । सार्वभौमादि.