________________
१९९
प्राकारपञ्चकोपेतं दिग्भद्रेण विराजितम् । मध्यस्थभूपसदनमावृतं मन्त्रिहर्म्यकैः ॥ २७ ॥ कूटकोष्ठादिसहितमनेकाट्टाल संयुतम् । एकाननन्तु प्राङ्निष्ठं द्विमुखं दक्षिणोत्तरम् ॥ २८ ॥ चतुर्वस्त्रश्चतुर्दिक्स्थं दुर्गस्यास्य विधीयते ।
संयुतं नलीकाद्यायुधस्थापनस्थानसहितं प्राकारलयेण वा प्राकारपञ्चकेन वा समन्ततः क्रमशः संवृताङ्गणं कूटकोष्ठादियुतमेकादिसप्तभौमविराजितम् । पुनः कथंभूतम ? दिग्भद्रेण विराजितम् । दिग्भद्रस्तावत्तत्र तत्र सौधभित्त्याशुपरिभागषु कल्पनीयक्षुद्रविमानपञ्जरादिरचनाविशेषः, तेनोपेतमित्यर्थः ।।
किश्चैतादृशलक्षणान्वितनृपभवनस्य बहिः प्रदेशे प्राकारे सचिवभवनानि, द्वितीयप्राकारे सेनापतितदीयभवनानि, तृतीयप्राकारे न्यायवित्प्रमुखाणां सुहृदां राजबन्धुवर्गजनानाश्च भवनानि, चतुर्थप्राकारे भिषग्वरपुरोहितादिसदनानि, पञ्चमप्राकारे शुद्धान्तरक्षकयामरक्षकयोधदूतले खवाहकप्रमुखाणां विविधभृत्यवर्गजनानां निलयांश्च स्थापयेदित्येवं क्रमश्च बोध्यः ।।
किश्चैतादृशभवनावलीभिर्बहुविधशालादिभिर्विपण्यादिभिश्च विराजितमिदं दुर्ग विधा भवति । यथा -- एकमुखदुर्गम्,