________________
१९८
मन्त्र्यादिपरिवाराणां भवनाद्यैश्च संयुतम् ॥ २४ ॥
अथ एकमुखद्विमुखचतुर्मुखदुर्गलक्षणम् ॥ नदीनदीशतीरे वा गिरिसानी समस्थले । चतुरनं कृतं दुर्गमेकाननमुदीरितम् ॥ २५ ॥ अगाधां परिखाङ्काढलङ्घयामरिसैनिकैः । द्वारोपद्वारसंयुक्तं नलीकस्थानशोभितम् ॥ २६ ॥
किञ्चैतादृशदेवतदुर्गेऽमात्यादिपरिवाराणामावासस्थाना • दिकं बहुकल्पनोज्ज्वलं स्थलानुकूलं भूपमन्दिर परितस्तत्समीपां एव वा रचयेत । अपि च पूर्वोक्तरीत्या एतादृशस्वाभाविकपरिखावृतदुर्गमध्यस्थापितराजभवनमभितो दुर्गान्तरोपपुरादिकल्पनादिकं तत्तत्स्थलविभवेच्छाधीनं कल्पनीयमिति शिल्पसमयविदः ॥ २४ ॥
अथैकमुखादिदुर्गत्रयलक्षणं विशिनष्टि - नदीति । एकमुखादिदुर्गनिर्माणाय वास्तुभामस्तावत्प्रायशो नदीतीरगता वा समुद्रतीरगता वा गिरितटभूमिगता वा भवितव्या । सा च भूस्समस्थला चतुरश्रा च स्वीकार्येति मतिः । तामिमां स्वीकृतां वास्तुभूमि अरिभिरलद्ध्यागाधपरिखावृतां कृत्वा तन्मध्ये भूपालभवनं स्थापयेदिति क्रमः ॥
कीदृशलक्षणान्वितं भपभवनम् ? पूर्वोक्तशैल्या द्वारोपद्वार