________________
१९७
युग्मायुग्मपदोपेतं द्वारोपद्वारसंयुतम् ।। २२ ।। सप्राकारं ससैन्यश्च मध्यस्थक्षत्र मन्दिरम् । योधावाससमोपेतमायुधागारसंयुतम् ॥ २३ ॥
एकानेकतलोपेतशालाभिश्व समुज्ज्वलम् । नवीकृत्य तन्मध्ये तादृशवास्तुस्थलानुकूडं भूपभवन सचिवादिवासस्थानानि यथाक्रमं रचयेदित्यर्थः ॥
तञ्च राजभवनं कीदृशलक्षणान्वितम ? युग्मायुग्मपदोपेतमिति । युग्मपदानि तावत् भवनान्तः कल्पनीयशालादीनामन्येषाञ्चत्वरादीनां च परस्परभिन्यादिमेलनस्थानानि । अयुग्म - पदानि तु तादृशचत्वरादिभिः शालादीनाम संमिलितानि तलानि । पानीमानि तावत् विवाहादिसमयेषु बहुजननिवेशार्हाणि । समरादिसमयेषु च बहुविधोपकारकाणीति भावः ॥
अत एतादृशेषु युग्मायुग्मपदेषु उपरिभागेषु योधायुधादीनि स्थाप्यानीति केचित् । अत एतादृशयुग्मायुग्मपदोप पूर्वोक्तरीत्या द्वारोपद्वारसंयुतं, एकादिबहुप्राकारावृतं, प्रतिप्राकारं सेनानिवेशस्थलसहितञ्च कल्पयेदिति पूर्वेणान्वयः ॥
किन तत्र राजभवनमध्ये वा तत्पार्श्वे वा स्थलान्तरे आयुधागारं स्थापनीयम् । राजकीयावरोधहर्म्याणि, भूपावास - हर्म्याणि च एकादिपञ्चभौमावधिकानि, प्रतिभौमं बहुशालासहितानि च कल्पनीयानीति समयः ॥