________________
१९६
अथ पञ्चमस्य दैवतदुर्गस्य लक्षणम् ॥ क्वचिद्भूधरमार्गेषु नद्यास्तीरादिषु स्थलम् । सहजागाधपरिखासंवृतं तत्तु दैवतम् ॥ २१ ॥ तत्रैव दुर्गनगरं स्थापयेत्स्थलयोग्यकम् ।
दूरस्थेन देशमार्गेणोपेतः कल्पनीयः । तस्मादत्र भूपालसचिवसेनेशादिराज्यकार्यकारिणामेवावासस्थानकल्पनं विहितम् । निषि
चेतरजनभवनादिकल्पनामिति भावः । किञ्चेदं इरिणदुर्ग इतरजनानामत्यन्तासौख्यप्रदमित्यादि इरिणदुर्गलक्षणपदेनैव प्रतीयत इति भावः ॥ २० ॥
अथ पञ्चमस्य देवतदुर्गस्य लक्षणमाह-क्वचिदिति । भूम्यां कचित्प्रदेशे पर्वतसमीपस्थलेषु वा महानद्यादितीरभागेषु वा वनमध्यादिप्रदेशेषु वा जगत्सृष्टिक्रमतस्स्वाभाविकागाधपरिखावृतं स्थलं प्रायशो लभ्यम् । तादृशस्थले सार्वभौमादिभिर्भूपालैटुंग करणीयम ॥
किश्वरीत्या स्वाभाविकपरिखावृतस्य तस्य वास्तुस्थलस्य यदि वैपुल्यादिकं तदा तदनुकूलं राजभवनादिमानं वाऽन्येषां जनानामावासभवनसहितं वा दुर्गसंविधानं रचयेदित्यर्थः ।।
किश्च सर्वथा तामेव स्वाभाविकां परिखां स्थलानुकूलं