________________
१९५
तन्मध्ये भूमिपालस्य द्वारोपद्वारसंयुतम् ॥ १८ ॥ नानाशालासमोपेतं नलिकादिस्थलान्वितम् । प्रच्छन्नमार्गसंयुक्तं भवनं रचयेद्बुधः ॥ १९ ॥ मन्यादिपरिवाराणां भवनानि समन्ततः । सेनास्थानं ससंभार सायुधं यंत्रगर्भितम् ।। योगो दूरतरस्थेन मार्गेणास्य सुरक्षकः ॥ २० ॥
किश्चात्रापि नगरमध्यभागे भूपालहर्म्यमुत्तुङ्गं करणीयम् । की दशलक्षणान्वितम ? द्वारोपद्वारयुतमत्यन्तरवणार्थ बद्धद्वारोपेत. मित्यर्थः । तत्र च प्रथमतः पूर्वभागे तुङ्गमेकं द्वारं कल्पयित्वा, तत्पश्चाद्भागे तद्वदेव द्वारान्तरम तदन्तः पुनरपि द्वारान्तरमित्यादिक्रमेण भवननिर्माणानुकूलं प्रतिदिशं सप्तद्वारस्थापनं वा कार्यमिति भावः !! ___किश्च तद्भूपहर्म्य नानाशालान्वितं तत्तद्दिकोणेषु नलीककुन्ताद्यायुधस्थापनस्थलोपेतं भवनान्तः सुरङ्गादिप्रच्छन्नमार्गोपेतञ्च स्थापयेत् । किश्चात्र दुर्गे समुचिते स्थले सेनास्थानं ससंभारं नानायुधनिर्माणस्थापनस्थानसहितं व्रीहिपलालतण्डुलाढकतैलादिद्रव्यराशिस्थापनस्थानोपेतं बहुविधयन्त्रगर्भित रिपुभिरज्ञातरचनोपेतं च स्थापयेदित्यर्थः ।।
किञ्च इरिणदुर्गस्यास्य प्रवेशमार्गो भटादिरक्षासहितः बहु