________________
१९४
अथ चतुर्थस्य इरिणदुर्गस्य लक्षणम् ॥ सलिलैस्तरुषण्डैश्च लताद्यैश्च विवर्जिते । दुष्प्रवेश्ये स्थले तुङ्गे सोपानालिसमन्विते ॥ १६ ॥ निम्ने वाऽथ स्थले क्लृप्तमिरिणं दुर्गमिष्यते । दुर्लङ्घयामरिसेनाभिरभेद्याञ्च समन्ततः ॥ १७ ॥ परिखां पृथुसालाञ्च कल्पयेच्छिल्पकर्मवित् ।
1
कल्पने कलितेऽपि एकादिप्राकारसमावृतबीभ्युपेतं दुर्गतटपुरतटादिस्थललक्षणशीलैः कुन्ताद्यायुधधारिभिः यामरक्षकै वीरभटैश्च रक्षणीयसन्निवेशसहितं शिल्पी कल्पयेदिति सलिलदुर्गनगरलक्षणं सङ्क्षेपेणोक्तम् । अन्यत्सर्वं शिल्पचतुरैरेव स्वयमूह्य कल्पनीयमिति भावः ॥ १५ ॥
अथ चतुर्थस्य इरिणदुर्गस्य लक्षणमाह- सलिलैरिति । सलिलैर्वृक्षैर्लताभिश्व होने प्राणिभिर्दुष्प्रवेश्ये तुङ्गे वा निम्ने वा स्थले कल्पितं दुर्गमिरिणदुर्गमित्युच्यते । स्वभावतस्तुङ्गेऽपि स्थले भवनाथं पुनरपि सोपानपरम्पराभिरुन्नतत्वं कार्यम् इति समयः । अथवा एतादृशइरिणदुर्गे निम्नस्थलस्यापि तादृशभवनादिनिर्माणोचित सोपानपङ्क्तिरचना स्थाप्येति क्रमः । अरिभिरलङ्घयामायुधादिभिरभेद्यामगाधां परिखामुत्तुङ्गप्राकारं चात्र बास्तुस्थले क्रमाद्रचयेत् ॥