________________
मध्यस्थराजभवनममात्यादिस्थलोज्ज्वलम् । स्थलानुकूलतः स्थाप्यमन्यवासादिकं पुनः ॥ १४ ॥ सेनावासं ससम्भारं स्थापयेच्च समन्ततः । ससालं सहितं वीरामिकैस्तटरक्षकैः ॥ १५ ॥
अथवा एतन्मध्यस्थानगतभूपतिभवनं परित एव तादृशागाधपरिखाकल्पनं वा स्थापनीयम्। अथवा स्थलद्वयेऽपि परिखाकल्पनं वेति विकल्पः । तन्नेतृसौकर्यद्योतक इति भावः। सर्वथाऽत्र कल्पनीयदुर्गभित्तेरुभयपक्षेऽपि उपभित्त्यादिवत्रादिकं स्थापयेत् । कुतः ? अत्यन्तदायांपादनाय, चिरकालस्थितये च । किञ्च नगरपरिखापेक्षयाऽस्य दुर्गस्य इदमेव मुख्यं वैलक्षण्यं बोध्यम् । किम्बात्र दुर्गमध्यभाग एव भूपालभवनमभितोऽमात्यसेनेशयुवराजप्रमुखानां भवनानि स्थापनीयानि । अपि चात्र सलिलदुर्गनगरे लभ्येत यदि विपुलं स्थलं, तदा तत्र मानुषनगरवद्वा पुरवद्वा महानगरं झुद्रनगरमथवा नानाजातिजनगृहसहितं विपण्यादिविविधशालावलीभिरुपेतं च करणीयमिति ॥
किश्चात्र दुर्गे क्षोणीपतिभवनसमीपे वा स्थलान्तरे समुचिते सेनानिवेशः स्थाप्यः । कीदृशलक्षणोपेतः ? श्रीहिपलाल. तण्डुलाढकमुद्गगोधूमचणकमरीचितैलभाण्डादिसंभारभरितः । किश्च पूर्वोक्तरीत्या अत्रत्यराजभवनमभितः पुरमभितश्च परिखा.
E.825