________________
१९२
अथ तृतीयस्य सलिलदुर्गनगरस्य लक्षणम् ॥ पारावारेण नद्या वा संवृतं स्थलमुत्तमम् । कथितं शिल्पशास्त्रज्ञैर्नाम्ना सलिलदुर्गकम् ।। १२ ।। भूपालस्येच्छया कार्यमन्तर्दुर्गप्रकल्पनम् ।
दुर्गभित्तेरुभयतस्तूपकुड्यसमन्वितम् ॥ १३ ॥ विशेषतः कोणेषु प्राच्यादिष्वपि स्थानभागेषु शतहन्याद्यायुधस्थापनस्थलं तत्र तत्रान्तरभागेषु समरादिसमयेषु रक्षाकर कल्पनाजालञ्च कल्पयेत् । किश्च दुर्गस्यास्य मध्ये भागे भूपालादिभवनानि विविधशालादिकश्च यथाक्रमं स्थापयेत् । कचित्तु स्थले एतादृशदुर्गस्यान्तर्वहि यथाभूलाभं क्षुद्रमुपपुरं वा प्रस्तरनगरोक्तलक्षणोपेतं वा शिल्पी कल्पयेदिति केषाच्चिदाशयः ।।
___ अथ तृतीयस्य सलिलदुर्गनगरस्य लक्षण माह-पारावारेणेति । समुद्रण वा, नद्या वा महत्या, महता जलाशयेन वा यद्विशालस्थलमावृतं, तच्च स्थलं कल्पितं दुर्गनगरनिर्माणमपि सलिलदुर्गनगरमिति शास्त्रज्ञा वदन्तीत्यर्थः । इदमेव द्वीपदुर्गमिति केचित् ॥
किश्चात्र दुर्गकल्पनप्रकारस्तु भूपालेच्छाधीनः । कथमिव ? पूर्वोक्तागाधसमुद्रजलाशयादितरङ्गावृतायां अस्यां द्वीपभूम्यां नगरपरिखावदस्यापि परिखानिर्माणकरणीयम् ।।