________________
१९१
दुर्गे प्रागानने स्थाप्यं भूमिपालस्य मन्दिरम् । मन्त्र्यादिपरिवाराणां भवनानि प्रकल्पयेत् ॥ ९ ॥ सुरङ्गादुर्गके स्थाप्यं योधायुधधनादिकम् । तलाश्रितं तु यदुर्ग तुङ्गप्राकारसंयुतम् ॥ १० ॥ नलीकस्थानभाकोणेष्वन्ताराश्रित तथा ।
प्रस्तरोक्तप्रमाणेन कारयेदन्यकल्पनम् ॥ ११ ॥ नतत्वाभावे ऊर्ध्वदुर्गनगराहां भूमि शिलादिभिरतितुङ्गाङ्कृत्वा तामभितः परिखामगाधां च कारयेत । किञ्च तदुर्गमभितः दृढप्राकारभित्तीः स्थापयेत् । एवञ्चतसृष्वपि दिनु बहिरन्तश्च यामरक्षकादियोधाङ्गणादीनि च स्थापयेत् । किञ्च दुर्गमिदं प्राचीमुखद्वारं सगोपुरकृत्वा मध्यभागे भूपालसचिवादिभवनानि कल्पयेदित्यर्थः ।।
द्वितीये सुरङ्गादुर्गे तु सर्वथा न मनुष्यागारादीनि स्थापयेत् । परन्तु समरादिसमयेषु भूपयोधादीनां तिरोधानस्थानम , आयुधस्थापनस्थान, धनादिश्रेष्ठद्रव्यस्थापनार्हस्थानानि चातिढानि रहस्योपैतानि कारयेदिति भावः ॥ १० ॥
तृतीये साधारणभूतलाश्रितदुर्गे तु अगाधपरिखावृतवास्तुके कानि लक्षणानीत्याकाङ्क्षायामाह - तलाश्रितमिति । वनमध्यभागे स्थापितं वनदुर्गमिदं तुङ्गप्राकारभित्त्यावृतं कृत्वा