________________
१९०
अथ द्वितीयस्य वनदुर्गस्य लक्षणम् ॥
वनमध्यगतं दुर्गे वनदुर्गमुदीरितम् । ऊर्ध्वस्थं भूमिभागस्थमन्तस्थं चेति तस्त्रिधा || ६ || ऊर्ध्वस्थं तुङ्गभूमिस्थं भूमिस्थं भूतलाश्रितम् । सुरङ्गाश्रितमन्तस्थं बोध्यं शिल्पपरायणैः ॥ ७ ॥
शिलापरम्परातुङ्गभागस्थे दृढभित्तिके । रक्षकैर्यामिकैरन्यैः परीते च समन्ततः ॥ ८ ॥
मान् शिल्राचार्यः कल्पयेदिति सङ्क्षेपेण गिरिदुर्गनगरल भणार्थः कथितः । परैरनभिभाव्येऽतिदुर्गमे गिरिशिखरादिस्थलविशेषेऽस्य नगरस्थापनस्योक्तत्वात् । अत्र राजसेवकेतरजनानामावासनिलयादिकरणवैफल्याद्यसुख संभवप्रसङ्गान्नाव तदुक्तमिति भावः ॥
1
अथ द्वितीयस्य वनदुर्गस्य लक्षणमाह वनमध्यगतमिति । वनमध्यविरचितं दुर्गं वनदुर्गमिति । तच्च दुर्गन्तावत् ऊर्ध्व दुर्गं, भूदुर्गमन्तर्दुर्गमिति त्रिधा भवति । विधातृसृष्टिवशात स्वाभाविकोन्नतस्थले वा शिलादिकार्यकरैर्भृत्यादिभिरुपर्युपरि दृढकल्पितशिलावलीभिरुन्नते वा स्थले तादृशवैशाल्यादियुतं यत्कल्पितं तदेवोर्ध्व दुर्गनगरामिति । साधा रणभूमिभागाश्रितं दुर्ग भूदुर्गम | सुरङ्गादिमार्गस्थं दुर्गमन्तर्दुर्गमिति एतेषामर्थो बोध्यः ।
तेषां लक्षणान्याह - शिलेति । पूर्वोक्तरीत्या स्वाभाविको