________________
१७५
अथ विंशतितमस्य राजधानीनगरस्य लक्षणम् ॥ सार्वभौमो दयाशीलो धर्मत्राणपरायणः । सिमासनस्थस्सचिवै पालाद्यैरभिष्टुतः ॥ १७६ ॥ राजते यत्र तद्वास्तु राजधानीति सोत्तमा । समुद्रतीरभाग्वापि नदीतीरस्थिताथवा ॥ १७७ ।। सहस्रत्रयदण्डान्ता वास्तुभूमिरुदाहृता । दुर्गावृतामिमां भूमिमथवा भूपमन्दिरम् ॥ १७८ ॥ दक्षिणोत्तरदिग्भागमुखद्वारेण मण्डितम् ।
अथ विंशतितमस्य राजधानीनगरस्य लक्षणमाह - सार्वभौम इत्यादिना । यस्मिन्नगरे दयादिगुणोज्ज्वला सामन्तभूपालादिसेवितस्सार्वभौमः सिद्मासनस्थो राजते, तस्य राजधानीति प्रसिद्धं नामेति शिल्पसमय:। सा च समुद्रतीरभाग्यदि विशेषता श्लाघ्या। तदलाभे नदीतीरस्था स्वीकार्येति मतिः। तदलाभे कदलीनारिकेलमल्लीचम्पकादिवृद्धिदायिन्यां वनभूमौ वा नगरमिदं स्थापयेदिति भावः । अयमधमः पक्ष एव ॥
किश्च सहसत्रयभूपदण्डप्रमाणोपेता चतुरश्राकृतिरेव वास्तुभमिरेतनगरनिर्माणाय स्वीकार्येति प्रमाणक्रमः । वित्तादि. शक्तिमत्त्वे राजधानीमिमां परितः परिखामगाधां स्थापयेत् । अथवा एतनगरस्थसावित्रभागभाजो भूपहर्म्यस्यैव तादृशपरिखा.