________________
१७४
यत्र प्रतोलिकायोग्यस्तत्र न्यायसभा मता ॥ १७२ ॥ वारुण्यां दक्षिणामूर्तेस्स्थानकुर्याद्विचक्षणः । उदीच्यां भूमिपालस्य मन्दिरस्थापनं मतम् ॥ १७३ ॥ ब्राह्मणादिचतुर्वर्णस्थानानि स्थापयेत्क्रमात् । नानादेशागतैः पूर्ण प्रयुताधिकसंख्यकैः ॥ १७४ ॥ ग्रामकार्यकरैस्सर्वैः पुरकार्यकरैरपि । संयुक्तं नगरं नाम्ना नन्द्यावर्तमुदीरितम् ॥ १७५॥
किश्चात्र पूर्वोक्तप्रतोलिकात्रयस्य यत्र सङ्गमो नगरमध्यभागे वास्तुनाथस्थाने संभवति, तत्र किल नगरवास्तुमध्ये वास्तुनाथालयसहिता न्यायशालादिबहुविधाश्शाला स्थाप्याः । किन्न नगरस्यास्य वारुण्यान्दिशि दक्षिणामूरन्येषां देवानाच मन्दिरं मण्टपगोपुरादिलसितं करणीयम् ॥
तथोदीच्यां दिशि भूपालमन्दिरादिकं स्थाप्यम् । ब्राह्मणक्षत्रियवैश्यशूद्रादीनां भवनादिकं तु वैजयन्तनगरलक्षणोकरीत्या वा नगरान्तरलक्षणानुगुण्येन वा तत्र तत्र समुचिते भागे प्रकल्पयेत् । किनेदं नगरं प्रामकार्यकरैः पुरकार्यकरैरन्यैरपि शिल्पादिकर्म: वणिकप्रभृतिभिः नानादेशागतै नाजातिभिरयुतसंख्याधिकैरुपेतं बहुविधविपण्यादिलसितं च स्थापयेदिति सपेण नन्यावर्तनगरलक्षणार्थो शेयः ॥ १७५ ॥