________________
१७३
नैर्ऋत्यारब्धवीथीनामैशान्यां निर्गमो भवेत् ॥ १७ ॥ नन्द्यावर्ताकृतिस्तत्र गणनीया प्रधानका । एवं प्रतोलिकाश्रेण्यस्तिस्रः पश्चाथ सप्त वा ।। १७१ ॥ उपवीथीरनेकाश्च चतुर्भागेषु कल्पयेत् ।
यथा - आग्नेयदिग्भागद्वारस्था वाध्यतावत्क्रमेण किश्चिदूरमुदगुखं गत्वा परावृत्य तदपेक्षया बहुदूरं प्रत्यङ्मुखं गत्वा पुनरपि पूर्ववदुदङ्मुखगमने वायुदिग्गतोत्तराननमुखद्वारसमीपगाः स्युरित्यर्थः । अयमेव नन्द्यावर्तक्रमो बोध्यः । अनयैव रीत्या निर्ऋतिदिग्भागगतद्वारारब्धा वीथ्यस्तावक्रमेण किश्चिद्रं प्राङ्मुखङ्गत्वा परावृत्य तदपेक्षया बहुदूरमुदङ्मुखङ्गत्वा पुनरपि किश्चिद्रं प्राङ्मुखगमने ऐशान्यकोणगतद्वारसमीपभाज: स्युरिति क्रमः॥
किश्चैतादृशलक्षणान्विताः प्रोलिकाः प्रतिदिशं तिस्रो वा, पञ्च वा, सप्त वा, यथास्थलविभवं स्थापनीयमिति पञ्च वा सप्त वेत्येतेन लक्षणवाक्येन यथास्थलविभवं पोथीनिर्माणमिति प्रतीत्या पूर्वोक्तमृपदण्ड सहस्राधिकत्वन्यूनत्वप्रमाणमप्यस्य नगरस्य कचिदुत्तमस्थलविशेषे संभाव्यमित्यर्थश्च ध्वन्यते । अपि चात्र नगरे बहुसंख्याश्चोपधीथीः क्षुद्रवीथीश्च सत्र तत्रामेयादिभागचतुष्केऽपि बहुविशाले स्थले स्थापयेत् ॥