________________
२०२
दक्षिणाननमाग्नेयद्वारं कुर्याद्विचक्षणः ॥१६७ ॥ प्रत्यङ्मुखन्तु नैर्गत्यं वायव्यं चोचराननम् । ऐशान्यं प्राङ्मुखोपेतं द्वारवक्त्रमितीरितम् ॥१६८॥ महागणसमोपेतमन्तस्तद्वारमीरितम् । महाङ्गणात् प्रतोलीनामारम्भश्च प्रकल्पयेत् ॥१६९ ॥ आगेय्यारब्धवीथीनां वायव्यां निगमो भवेत् ।
चतुष्कं स्थापयेत् । तत्राप्यन्यो नियमः । कथम् ? आनेयदिग्गतं द्वारं दक्षिणामुखं कार्यम् । तथा निर्ऋतिदिग्गतं द्वारं प्रतीची मुखं कार्यम् । वायव्यदिग्गनं द्वारमुत्तरदिङ्मुखं स्थापनीयम् । तत्रेशानदिग्गतं द्वारं पूर्वदिङ्मुखञ्च प्रादक्षिण्यक्रमेणैव स्थापयेदिति।।
किञ्च तत्र तत्रैवरीत्या दिकोणस्थलेषु स्थापितस्यैतादृशकोणद्वारचतुष्कस्यान्तर्भागे तत्र तत्र महान्त्यङ्गणानि प्रकल्पयित्वा तानि मण्टपादिना वा शालादिभिर्वा संमिलिनानि कारयेत् । किश्च तादृशाङ्गणादारभ्यैवात्रत्यानां प्रतोलिकादीनां कल्पनकार्यमिति समयः ॥
अपि चात्र नगरे तावद्वाथ्यादीनां कल्पनन्तु किञ्चिद्विच्छित्तिविशेषशालि । यथा वा पूर्वोक्तदक्षिणामुखद्वारारब्धानां वीथीनां निर्गमो वायव्यामेव दिशायां स्थाप्यः । तयोर्दिशोमध्ये न साक्षात्तिर्यकप्रसारत्वं कल्पनीयम । परन्तु नन्द्यावर्तीकृतिरेव मुख्यतो वीथीना स्याप्या ।।